|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.273. अध्यायः 273
Mahabharata - Vana Parva - Chapter Topics
भीमेन केशग्रहणेन निपातितस्य जयद्रथस्य मूर्ध्नि पादप्रहारपूर्वकं क्षुरप्रेण पञ्चचूदीनिर्माणम् ॥ 1 ॥ भीमेन बन्धनपूर्वकमानीतस्य तस्य युधिष्ठिरेण मोचनम् ॥ 2 ॥ जयद्रयेन तपःप्रसादितान्महादेवादर्जुनवर्जमेकस्मिन्दिने पाण्डवजयरूपवराऽऽदानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-273-0x(2681)(26367)
जयद्रथस्तु संप्रेक्ष्यभ्रातरावुद्यतायुधौ।
प्रादावत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥ 3-273-1(26368)
`लताभिः संवृते कक्षे किरीटं रत्नभास्वरम्।
अपविध्यप्रधावन्तं निलीयन्तं वनान्तरे ॥ 3-273-2(26369)
भीमसेनस्तु तं कक्षे लीयमानं भयाकुलम्।
मार्गमाणोऽवतीर्याशु रथाद्रत्नविभूपितात्'।
अभिद्रुत्य निजग्राहकेशपक्षे ह्यमर्षणः ॥ 3-273-3(26370)
समुद्यम्य च तं भीमो निष्पिपेप महीतले।
गले गृहीत्वाराजानं पातयामास चैव ह ॥ 3-273-4(26371)
पुनः स जीवमानस्य तस्योत्पतितुमिच्छतः।
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ 3-273-5(26372)
तस्य जानू ददौ भमो जघ्ने चैनमरत्निना।
स मोहमगमद्राजा प्रहारवरपीडितः ॥ 3-273-6(26373)
सरोषं भीमसेनं तु वारयामास फल्गुनः।
दुःशलायाः कृतेराजा यत्त्वामाहेति कौरव ॥ 3-273-7(26374)
भीम उवाच। 3-273-8x(2682)
नायं पापसमाचारो मत्तो जीवितुमर्हति।
कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः ॥ 3-273-8(26375)
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी।
त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥ 3-273-9(26376)
एवमुक्त्वा सटास्तस्य पञ्चचक्रे वृकोदरः।
अर्धचन्द्रेण वाणेन किंचिदब्रुवतस्तदा ॥ 3-273-10(26377)
विकल्पयित्वा राजानं ततः प्राह वृकोदरः।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ 3-273-11(26378)
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च।
एवं चेज्जीवितं दद्यामेष युद्धजितो विधिः ॥ 3-273-12(26379)
एवमस्त्विति तं राजा कृच्छ्रमाणो जयद्रथः।
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ॥ 3-273-13(26380)
तत एनं विचेष्टन्तं वद्ध्वा पार्थो वृकोदरः।
रथमारोपयामास विसंज्ञं पांसुकुण्ठितम् ॥ 3-273-14(26381)
ततस्तं रथमास्थाय भीमः पार्तानुगस्तदा।
अग्र्यमाश्रममध्यस्थामभ्यगच्छद्युधिष्ठिरम् ॥ 3-273-15(26382)
दर्शयामास भीमस्तु तदवस्थं जयद्रथम्।
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥ 3-273-16(26383)
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै।
दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥ 3-273-17(26384)
तमुवाच च ततो ज्येष्ठो भ्राता सप्रणयं वचः।
मुञ्चेममधमाचारं प्रमाणा यदि ते वयम् ॥ 3-273-18(26385)
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्।
दासोऽयंमुच्यतां रात्रस्त्वयापञ्चशिखः कृतः ॥ 3-273-19(26386)
`एवमुक्तः स भीमस्तु भ्रात्रा चैव च कृष्णया।
मुमोच तं महापापं जयद्रथमचेतनम्' ॥ 3-273-20(26387)
स मुक्तोऽभ्येत्यराजानमभिवाद्य युधिष्ठिरम्।
ववन्दे विह्वलोराजातांश्च वृद्धान्मुनींस्तदा ॥ 3-273-21(26388)
तमुवाच धृणी राजा धर्मपुत्रो युधिष्ठिरः।
तथाजयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥ 3-273-22(26389)
अदासो गच्छ मुक्तोसि मैवं कार्षीः पुनः क्वचित्।
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षत्रसहायवान् ॥ 3-273-23(26390)
एवंविधं हि क कुर्यात्त्वदनयः पुरुषाधमः।
`कर्म धर्मविरुद्धं वै लोकदुष्टं च दुर्मते' ॥ 3-273-24(26391)
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्।
संप्रेक्ष्यभरतश्रेष्ठः कृपां चक्रे नराधिपः ॥ 3-273-25(26392)
धर्मे ते वर्धतां वुद्धिर्मा चाधर्मे मनः कृथाः।
साश्च साथपादातः स्वस्ति गच्छ जयद्रथ ॥ 3-273-26(26393)
एवमुक्तस्तु सव्रीजं तूष्णीं किंचिदवाङ्युखः।
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥ 3-273-27(26394)
स देवं शरणं गत्वा विरूपाक्षमुमापतिम्।
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥ 3-273-28(26395)
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः।
वरं चास्मै ददौ देवः स जग्राह च तच्छृणु ॥ 3-273-29(26396)
समस्तान्सरथान्पञ्चजयेयं युधि पाण्डवान्।
इति राजाऽब्रवीद्देवं नेति देवस्तमब्रवीत् ॥ 3-273-30(26397)
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि।
ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम् ॥ 3-273-31(26398)
बदर्यां तप्ततपसं नारायणसहायकम्।
अजितं सर्वलोकानां देवैरपि दुरासदम् ॥ 3-273-32(26399)
मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम्।
अवाप लोकपालेभ्यो वज्रादीन्स महाशरान् ॥ 3-273-33(26400)
देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः।
प्रधानपुरुषोऽव्यक्तोविश्वात्माविश्वमूर्तिमान् ॥ 3-273-34(26401)
युगान्तकाले संप्राप्ते कालाग्निर्दहते जगत्।
सपर्वतार्णवद्वीपं सशैलवनकाननम्।
निर्दहन्नागलोकांश्चपातालतलचारिणः ॥ 3-273-35(26402)
अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः।
घोरस्वरा विनदिनस्तटिन्मालावलम्बिनः।
समुत्तिष्ठन्दिशः सर्वाविवर्षन्तः समन्ततः ॥ 3-273-36(26403)
ततोऽग्नीं शमयामासुः संवर्ताग्निनियामकाः।
अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः ॥ 3-273-37(26404)
एकार्णवे तदातस्मिन्नुपशान्तचराचरे।
नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते।
चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही ॥ 3-273-38(26405)
ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात्।
सहस्रशीर्पा पुरुषः स्वप्नुकामस्त्वतीन्द्रियः ॥ 3-273-39(26406)
फणासहस्रविकटं शेषं पर्यङ्कभोगिनम्।
सहस्रमिव तिग्मांशुसंघातममितद्युतिम्।
कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम् ॥ 3-273-40(26407)
तत्रासौ भगवान्देवः स्वपञ्जलनिधौ तदा।
नैशेन तमसा व्याप्तां स्वां रात्रिंकुरुते विभुः ॥ 3-273-41(26408)
सत्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमपश्यत।
इमं चोदाहरन्त्यत्रश्लोकं नारायणं प्रति ॥ 3-273-42(26409)
आपो नारास्तत्तनव इत्यपां नाम शुश्रुमः।
अयनं तेन चैवास्ते तेन नारायणः स्मृतः ॥ 3-273-43(26410)
प्रध्यानसमकालं तुप्रजाहेतोः सनातनः।
ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः ॥ 3-273-44(26411)
ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद्विनिःसृतः।
तत्रोपविष्टः सहसा ब्रह्मा लोकपितामहः ॥ 3-273-45(26412)
शून्यं दृष्ट्वा जगत्कृत्स्नं मानसानात्मनः समान्।
ततो मरीचिप्रमुखान्महर्षीनसृजन्नव ॥ 3-273-46(26413)
तेऽसृजन्सर्वभूतानि त्रसानि स्थावराणि च।
यक्षराक्षसभूतानि पिशाचोरगमानुषान् ॥ 3-273-47(26414)
सृजते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः।
रौद्री भावेन शमयेत्तिस्रोऽवस्थाः प्रजापतेः ॥ 3-273-48(26415)
न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः।
कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः ॥ 3-273-49(26416)
जलेन समनुप्राप्ते सर्वतः पृथिवीतले।
तदा चैकार्णवे तस्मिननेकाकाशे प्रभुश्चरन् ॥ 3-273-50(26417)
निशायामिव खद्योतः प्रावृट्काले समन्ततः।
प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाऽभवत् ॥ 3-273-51(26418)
जले निमग्नां गां दृष्ट्वाचोद्धर्तुं मनसेच्छति।
किंनु रूपमहं कृत्वासलिलादुद्धरे महीम् ॥ 3-273-52(26419)
एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा।
जलक्रीडाभिरुचितं वाराहं रूपमस्मरत् ॥ 3-273-53(26420)
कृत्वा वराहवपुपं वाङ्मयं वेदसंमितम्।
दशयोजनविस्तीर्णमायतं शतयोजनम् ॥ 3-273-54(26421)
महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रंप्रदीप्तिमत्।
महामेघौघनिर्घोपं नीलजीमूतसन्निभम् ॥ 3-273-55(26422)
भूत्वा यज्ञवराहो वै अपः संप्राविशत्प्रभुः।
दंष्ट्रेणैकेन चोद्धृत्यस्वे स्थाने न्यविशन्महीम् ॥ 3-273-56(26423)
पुनरेव महाबाहुरपूर्वां तनुमाश्रितः।
नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः ॥ 3-273-57(26424)
दैत्येन्द्रस्य सभां गत्वापाणिं संस्पृश्यपाणिना।
दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः ॥ 3-273-58(26425)
दृष्ट्वा चापूर्ववपुषं क्रोधात्संरक्तलोचनः।
शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा ॥ 3-273-59(26426)
मेघस्तनितनिर्घोषो नीलाभ्रचयसन्निभः।
देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् ॥ 3-273-60(26427)
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा।
नारसिंहेन वपुषादारितः करजैर्भृशम् ॥ 3-273-61(26428)
एवं निहत्य भगवान्दैत्येनद्रं रिपुघातिनम्।
भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च।
कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः ॥ 3-273-62(26429)
पूर्णे वर्षसहस्रे तु प्रसूत भर्गमुत्तमम् ॥ 3-273-63(26430)
दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः।
दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः।
जटी यज्ञोपवीती च भगवान्बालरूपधृक् ॥ 3-273-64(26431)
यज्ञवाटं गतः श्रीमान्दानवेन्द्रस्य वै तदा।
बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे ॥ 3-273-65(26432)
तं दृष्ट्वावामनतनुं प्रहृष्टो बलिरब्रवीत्।
प्रीतोस्मि दर्शने विप्र ब्रूहि त्वं किं ददानिते ॥ 3-273-66(26433)
एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह ॥ 3-273-67(26434)
स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत।
मेदिनीं दानवपते देहि मे विक्रमत्रयम् ॥ 3-273-68(26435)
बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे।
ततो दिव्याद्भुततमं रूपं विक्रमतोहरेः ॥ 3-273-69(26436)
विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम्।
ददौ शक्राय च महीं विष्णुर्देवः सनातनः ॥ 3-273-70(26437)
एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः।
तेन देवाः प्रादुरासन्वैष्णवं चोच्यते जगत् ॥ 3-273-71(26438)
असतां निग्रहार्थाय धर्मसंरक्षणाय च।
अवतीर्णो मनुष्याणामजायत यदुक्षये।
यं देवंविदुषोगान्ति तस्य कर्माणि सैन्दव ॥ 3-273-72(26439)
अनाद्यन्तमजं देवं प्रभुंलोकनमस्कृतम्।
यं देवं विदुषोगान्तितस् कर्माणि सैन्धव ॥ 3-273-73(26440)
यमाहुरजितंकृष्णं शङ्खचक्रगदाधरम्।
श्रीवत्सधारिणं देवं पीतकौशेयवाससम् ॥ 3-273-74(26441)
प्रधानं सोऽस्त्रविदुषां तेन कृष्णन रक्ष्यते ॥ 3-273-75(26442)
सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः।
समानस्यन्दने पार्थमास्थाय परवीरहा ॥ 3-273-76(26443)
न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः।
कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति ॥ 3-273-77(26444)
तमेकं वर्जयित्वातु सर्वंयौधिष्ठिरं बलम्।
चतुरः पाण्डवात्राजन्दिनैकं जेप्यसे रिपून् ॥ 3-273-78(26445)
`तस्मात्त्वंपार्थरहितान्पाण्डवान्वारयिष्यसि।
एतद्धि पुरुषव्याघ्र मया दत्तो वरस्तव' ॥ 3-273-79(26446)
वैशम्पायन उवाच। 3-273-80x(2683)
इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः।
उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः ॥ 3-273-80(26447)
वामनैर्विकटैः कुब्जैरुग्रश्रवणदर्शनैः।
वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः ॥ 3-273-81(26448)
त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः।
उमासहायो भगवांस्तत्रैवान्तरधीयत ॥ 3-273-82(26449)
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ।
पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तथा ॥ 3-273-83(26450)
इति श्रीमन्महाभारते अरण्यपर्वणि यजद्रथविमोक्षणपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ 273 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-273-9 घृणी दयावान्। बालिशया स्वल्पया। बाधसेशत्रुं हन्तुं न ददासि ॥ 3-273-10 सटाः जटाः केशसंनिवेशे मध्ये मध्येपञ्चसु स्थानेषु अर्धचन्द्रेण बाणेन क्षीरवद्वाषयामासेत्यर्थः ॥ 3-273-11 विकत्थयित्वाराजानमिति झ. पाठः ॥ 3-273-29 बलिं उपहारम् ॥ 3-273-31 महाबाहुं देवैरपि दुरासदम् इति ध. पाठः ॥ 3-273-33 शृणाति हिनस्तीति शरमस्त्रम् ॥ 3-273-34 नारायणसहायस्याजेयत्वं वक्तुं नारायणमाहात्म्यमेवाह देवदेव इत्यादिना ॥ 3-273-35 कालाग्निरूपो नारायणो निदेहते ॥ 3-273-36 विनदिनः गर्जन्तः। समुत्तिष्ठन् समुदतिष्ठन्। उत्तिष्ठन्तीत्यर्थः ॥ 3-273-37 शमयामासुः पयोधरा इतिप्रपूर्वेणान्वयः। अक्षमात्रैः रथाक्षमात्राभिः स्थूलाभिः। सामान्ये नपुंसकम् ॥ 3-273-40 अध्यतिष्ठदिति शेषः ॥ 3-273-43 नारायणपदंनिर्वक्ति आप इति। नराज्जाता नाराः तत्तनयः नारायणस्यैव तनवः नाराः आपः अयनं निवासस्थानं यस्य ॥ 3-273-45 तस्मिंश्च पद्मे पितामह उपविष्ट इतिक्रमभङ्गेन योज्यम् ॥ 3-273-47 त्रसानि जंगमानि ॥ 3-273-49 हे सिन्धुपते। ते तव श्रुतं श्रवणं नास्ति। यथो विष्णोरद्भुतकर्मणः कथ्यमानानि कर्माणि न वेत्सीति शेषः ॥ 3-273-53 जलक्रीडायामभिरुचितं प्रीतिर्यस्य ॥ 3-273-54 वराहवपुषमात्मानमिति शेषः। वाङ्ययं चतुर्वेदमयम्। वेदसंमितं वेदप्रमितयज्ञरूपम् ॥ 3-273-55 वर्ष्म शरीरम् ॥ 3-273-56 दंष्ट्रेण दंष्ट्रया न्यविशत् न्यवेशयत् ॥ 3-273-62 गर्भे धरितः गर्भधारितः ॥ 3-273-64 दुर्दिनं प्रावृट्दिनं तत्र भवोऽम्भोदः कृष्णमेघस्तत्सदृशः। श्रीवत्सेनोरसि भूषित इत्यर्थः ॥ 3-273-65 वाटं स्थानम्। बलिनो बलेः। अयमिकारान्त इन्नन्तश्र शब्दो दृश्यते ॥ 3-273-69 दिव्यं च तदद्धुततमं च रूपं बभूवेति शेषः ॥ 3-273-72 अवतीर्णोऽवतरणं कुर्वन्नजायत आविर्भूतः। यदुक्षये यदूनां गृहे ॥ 3-273-73 तस्य कर्माणि विदुषो विद्वांसः गान्ति गायन्ति ॥ 3-273-75 सोऽर्जुनः अस्त्रविदुषां प्रधानं श्रेष्ठः य अजितमाहुस्तेन कृष्णेन रक्ष्यते ॥ 3-273-77 तेन कृष्णसहायत्वेन हेतुना। भावः पूज्यतमः। भावः पूज्यतमे लोके इत्यनेकार्थः ॥ 3-273-78 दिनैकमेकदिनमेव न सर्वदा ॥ 3-273-83 जयद्रथोऽपि मन्दात्मा स्वमेवेति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|