(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.273. अध्यायः 273
Mahabharata - Vana Parva - Chapter Topics
भीमेन केशग्रहणेन निपातितस्य जयद्रथस्य मूर्ध्नि पादप्रहारपूर्वकं क्षुरप्रेण पञ्चचूदीनिर्माणम् ॥ 1 ॥ भीमेन बन्धनपूर्वकमानीतस्य तस्य युधिष्ठिरेण मोचनम् ॥ 2 ॥ जयद्रयेन तपःप्रसादितान्महादेवादर्जुनवर्जमेकस्मिन्दिने पाण्डवजयरूपवराऽऽदानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-273-0x(2681)(26367)
जयद्रथस्तु संप्रेक्ष्यभ्रातरावुद्यतायुधौ।
प्रादावत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥ 3-273-1(26368)
`लताभिः संवृते कक्षे किरीटं रत्नभास्वरम्।
अपविध्यप्रधावन्तं निलीयन्तं वनान्तरे ॥ 3-273-2(26369)
भीमसेनस्तु तं कक्षे लीयमानं भयाकुलम्।
मार्गमाणोऽवतीर्याशु रथाद्रत्नविभूपितात्'।
अभिद्रुत्य निजग्राहकेशपक्षे ह्यमर्षणः ॥ 3-273-3(26370)
समुद्यम्य च तं भीमो निष्पिपेप महीतले।
गले गृहीत्वाराजानं पातयामास चैव ह ॥ 3-273-4(26371)
पुनः स जीवमानस्य तस्योत्पतितुमिच्छतः।
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ 3-273-5(26372)
तस्य जानू ददौ भमो जघ्ने चैनमरत्निना।
स मोहमगमद्राजा प्रहारवरपीडितः ॥ 3-273-6(26373)
सरोषं भीमसेनं तु वारयामास फल्गुनः।
दुःशलायाः कृतेराजा यत्त्वामाहेति कौरव ॥ 3-273-7(26374)
भीम उवाच। 3-273-8x(2682)
नायं पापसमाचारो मत्तो जीवितुमर्हति।
कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः ॥ 3-273-8(26375)
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी।
त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥ 3-273-9(26376)
एवमुक्त्वा सटास्तस्य पञ्चचक्रे वृकोदरः।
अर्धचन्द्रेण वाणेन किंचिदब्रुवतस्तदा ॥ 3-273-10(26377)
विकल्पयित्वा राजानं ततः प्राह वृकोदरः।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ 3-273-11(26378)
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च।
एवं चेज्जीवितं दद्यामेष युद्धजितो विधिः ॥ 3-273-12(26379)
एवमस्त्विति तं राजा कृच्छ्रमाणो जयद्रथः।
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ॥ 3-273-13(26380)
तत एनं विचेष्टन्तं वद्ध्वा पार्थो वृकोदरः।
रथमारोपयामास विसंज्ञं पांसुकुण्ठितम् ॥ 3-273-14(26381)
ततस्तं रथमास्थाय भीमः पार्तानुगस्तदा।
अग्र्यमाश्रममध्यस्थामभ्यगच्छद्युधिष्ठिरम् ॥ 3-273-15(26382)
दर्शयामास भीमस्तु तदवस्थं जयद्रथम्।
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥ 3-273-16(26383)
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै।
दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥ 3-273-17(26384)
तमुवाच च ततो ज्येष्ठो भ्राता सप्रणयं वचः।
मुञ्चेममधमाचारं प्रमाणा यदि ते वयम् ॥ 3-273-18(26385)
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्।
दासोऽयंमुच्यतां रात्रस्त्वयापञ्चशिखः कृतः ॥ 3-273-19(26386)
`एवमुक्तः स भीमस्तु भ्रात्रा चैव च कृष्णया।
मुमोच तं महापापं जयद्रथमचेतनम्' ॥ 3-273-20(26387)
स मुक्तोऽभ्येत्यराजानमभिवाद्य युधिष्ठिरम्।
ववन्दे विह्वलोराजातांश्च वृद्धान्मुनींस्तदा ॥ 3-273-21(26388)
तमुवाच धृणी राजा धर्मपुत्रो युधिष्ठिरः।
तथाजयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥ 3-273-22(26389)
अदासो गच्छ मुक्तोसि मैवं कार्षीः पुनः क्वचित्।
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षत्रसहायवान् ॥ 3-273-23(26390)
एवंविधं हि क कुर्यात्त्वदनयः पुरुषाधमः।
`कर्म धर्मविरुद्धं वै लोकदुष्टं च दुर्मते' ॥ 3-273-24(26391)
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्।
संप्रेक्ष्यभरतश्रेष्ठः कृपां चक्रे नराधिपः ॥ 3-273-25(26392)
धर्मे ते वर्धतां वुद्धिर्मा चाधर्मे मनः कृथाः।
साश्च साथपादातः स्वस्ति गच्छ जयद्रथ ॥ 3-273-26(26393)
एवमुक्तस्तु सव्रीजं तूष्णीं किंचिदवाङ्युखः।
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥ 3-273-27(26394)
स देवं शरणं गत्वा विरूपाक्षमुमापतिम्।
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥ 3-273-28(26395)
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः।
वरं चास्मै ददौ देवः स जग्राह च तच्छृणु ॥ 3-273-29(26396)
समस्तान्सरथान्पञ्चजयेयं युधि पाण्डवान्।
इति राजाऽब्रवीद्देवं नेति देवस्तमब्रवीत् ॥ 3-273-30(26397)
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि।
ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम् ॥ 3-273-31(26398)
बदर्यां तप्ततपसं नारायणसहायकम्।
अजितं सर्वलोकानां देवैरपि दुरासदम् ॥ 3-273-32(26399)
मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम्।
अवाप लोकपालेभ्यो वज्रादीन्स महाशरान् ॥ 3-273-33(26400)
देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः।
प्रधानपुरुषोऽव्यक्तोविश्वात्माविश्वमूर्तिमान् ॥ 3-273-34(26401)
युगान्तकाले संप्राप्ते कालाग्निर्दहते जगत्।
सपर्वतार्णवद्वीपं सशैलवनकाननम्।
निर्दहन्नागलोकांश्चपातालतलचारिणः ॥ 3-273-35(26402)
अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः।
घोरस्वरा विनदिनस्तटिन्मालावलम्बिनः।
समुत्तिष्ठन्दिशः सर्वाविवर्षन्तः समन्ततः ॥ 3-273-36(26403)
ततोऽग्नीं शमयामासुः संवर्ताग्निनियामकाः।
अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः ॥ 3-273-37(26404)
एकार्णवे तदातस्मिन्नुपशान्तचराचरे।
नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते।
चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही ॥ 3-273-38(26405)
ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात्।
सहस्रशीर्पा पुरुषः स्वप्नुकामस्त्वतीन्द्रियः ॥ 3-273-39(26406)
फणासहस्रविकटं शेषं पर्यङ्कभोगिनम्।
सहस्रमिव तिग्मांशुसंघातममितद्युतिम्।
कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम् ॥ 3-273-40(26407)
तत्रासौ भगवान्देवः स्वपञ्जलनिधौ तदा।
नैशेन तमसा व्याप्तां स्वां रात्रिंकुरुते विभुः ॥ 3-273-41(26408)
सत्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमपश्यत।
इमं चोदाहरन्त्यत्रश्लोकं नारायणं प्रति ॥ 3-273-42(26409)
आपो नारास्तत्तनव इत्यपां नाम शुश्रुमः।
अयनं तेन चैवास्ते तेन नारायणः स्मृतः ॥ 3-273-43(26410)
प्रध्यानसमकालं तुप्रजाहेतोः सनातनः।
ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः ॥ 3-273-44(26411)
ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद्विनिःसृतः।
तत्रोपविष्टः सहसा ब्रह्मा लोकपितामहः ॥ 3-273-45(26412)
शून्यं दृष्ट्वा जगत्कृत्स्नं मानसानात्मनः समान्।
ततो मरीचिप्रमुखान्महर्षीनसृजन्नव ॥ 3-273-46(26413)
तेऽसृजन्सर्वभूतानि त्रसानि स्थावराणि च।
यक्षराक्षसभूतानि पिशाचोरगमानुषान् ॥ 3-273-47(26414)
सृजते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः।
रौद्री भावेन शमयेत्तिस्रोऽवस्थाः प्रजापतेः ॥ 3-273-48(26415)
न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः।
कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः ॥ 3-273-49(26416)
जलेन समनुप्राप्ते सर्वतः पृथिवीतले।
तदा चैकार्णवे तस्मिननेकाकाशे प्रभुश्चरन् ॥ 3-273-50(26417)
निशायामिव खद्योतः प्रावृट्काले समन्ततः।
प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाऽभवत् ॥ 3-273-51(26418)
जले निमग्नां गां दृष्ट्वाचोद्धर्तुं मनसेच्छति।
किंनु रूपमहं कृत्वासलिलादुद्धरे महीम् ॥ 3-273-52(26419)
एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा।
जलक्रीडाभिरुचितं वाराहं रूपमस्मरत् ॥ 3-273-53(26420)
कृत्वा वराहवपुपं वाङ्मयं वेदसंमितम्।
दशयोजनविस्तीर्णमायतं शतयोजनम् ॥ 3-273-54(26421)
महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रंप्रदीप्तिमत्।
महामेघौघनिर्घोपं नीलजीमूतसन्निभम् ॥ 3-273-55(26422)
भूत्वा यज्ञवराहो वै अपः संप्राविशत्प्रभुः।
दंष्ट्रेणैकेन चोद्धृत्यस्वे स्थाने न्यविशन्महीम् ॥ 3-273-56(26423)
पुनरेव महाबाहुरपूर्वां तनुमाश्रितः।
नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः ॥ 3-273-57(26424)
दैत्येन्द्रस्य सभां गत्वापाणिं संस्पृश्यपाणिना।
दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः ॥ 3-273-58(26425)
दृष्ट्वा चापूर्ववपुषं क्रोधात्संरक्तलोचनः।
शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा ॥ 3-273-59(26426)
मेघस्तनितनिर्घोषो नीलाभ्रचयसन्निभः।
देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् ॥ 3-273-60(26427)
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा।
नारसिंहेन वपुषादारितः करजैर्भृशम् ॥ 3-273-61(26428)
एवं निहत्य भगवान्दैत्येनद्रं रिपुघातिनम्।
भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च।
कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः ॥ 3-273-62(26429)
पूर्णे वर्षसहस्रे तु प्रसूत भर्गमुत्तमम् ॥ 3-273-63(26430)
दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः।
दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः।
जटी यज्ञोपवीती च भगवान्बालरूपधृक् ॥ 3-273-64(26431)
यज्ञवाटं गतः श्रीमान्दानवेन्द्रस्य वै तदा।
बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे ॥ 3-273-65(26432)
तं दृष्ट्वावामनतनुं प्रहृष्टो बलिरब्रवीत्।
प्रीतोस्मि दर्शने विप्र ब्रूहि त्वं किं ददानिते ॥ 3-273-66(26433)
एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह ॥ 3-273-67(26434)
स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत।
मेदिनीं दानवपते देहि मे विक्रमत्रयम् ॥ 3-273-68(26435)
बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे।
ततो दिव्याद्भुततमं रूपं विक्रमतोहरेः ॥ 3-273-69(26436)
विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम्।
ददौ शक्राय च महीं विष्णुर्देवः सनातनः ॥ 3-273-70(26437)
एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः।
तेन देवाः प्रादुरासन्वैष्णवं चोच्यते जगत् ॥ 3-273-71(26438)
असतां निग्रहार्थाय धर्मसंरक्षणाय च।
अवतीर्णो मनुष्याणामजायत यदुक्षये।
यं देवंविदुषोगान्ति तस्य कर्माणि सैन्दव ॥ 3-273-72(26439)
अनाद्यन्तमजं देवं प्रभुंलोकनमस्कृतम्।
यं देवं विदुषोगान्तितस् कर्माणि सैन्धव ॥ 3-273-73(26440)
यमाहुरजितंकृष्णं शङ्खचक्रगदाधरम्।
श्रीवत्सधारिणं देवं पीतकौशेयवाससम् ॥ 3-273-74(26441)
प्रधानं सोऽस्त्रविदुषां तेन कृष्णन रक्ष्यते ॥ 3-273-75(26442)
सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः।
समानस्यन्दने पार्थमास्थाय परवीरहा ॥ 3-273-76(26443)
न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः।
कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति ॥ 3-273-77(26444)
तमेकं वर्जयित्वातु सर्वंयौधिष्ठिरं बलम्।
चतुरः पाण्डवात्राजन्दिनैकं जेप्यसे रिपून् ॥ 3-273-78(26445)
`तस्मात्त्वंपार्थरहितान्पाण्डवान्वारयिष्यसि।
एतद्धि पुरुषव्याघ्र मया दत्तो वरस्तव' ॥ 3-273-79(26446)
वैशम्पायन उवाच। 3-273-80x(2683)
इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः।
उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः ॥ 3-273-80(26447)
वामनैर्विकटैः कुब्जैरुग्रश्रवणदर्शनैः।
वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः ॥ 3-273-81(26448)
त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः।
उमासहायो भगवांस्तत्रैवान्तरधीयत ॥ 3-273-82(26449)
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ।
पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तथा ॥ 3-273-83(26450)

इति श्रीमन्महाभारते अरण्यपर्वणि यजद्रथविमोक्षणपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ 273 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-273-9 घृणी दयावान्। बालिशया स्वल्पया। बाधसेशत्रुं हन्तुं न ददासि ॥ 3-273-10 सटाः जटाः केशसंनिवेशे मध्ये मध्येपञ्चसु स्थानेषु अर्धचन्द्रेण बाणेन क्षीरवद्वाषयामासेत्यर्थः ॥ 3-273-11 विकत्थयित्वाराजानमिति झ. पाठः ॥ 3-273-29 बलिं उपहारम् ॥ 3-273-31 महाबाहुं देवैरपि दुरासदम् इति ध. पाठः ॥ 3-273-33 शृणाति हिनस्तीति शरमस्त्रम् ॥ 3-273-34 नारायणसहायस्याजेयत्वं वक्तुं नारायणमाहात्म्यमेवाह देवदेव इत्यादिना ॥ 3-273-35 कालाग्निरूपो नारायणो निदेहते ॥ 3-273-36 विनदिनः गर्जन्तः। समुत्तिष्ठन् समुदतिष्ठन्। उत्तिष्ठन्तीत्यर्थः ॥ 3-273-37 शमयामासुः पयोधरा इतिप्रपूर्वेणान्वयः। अक्षमात्रैः रथाक्षमात्राभिः स्थूलाभिः। सामान्ये नपुंसकम् ॥ 3-273-40 अध्यतिष्ठदिति शेषः ॥ 3-273-43 नारायणपदंनिर्वक्ति आप इति। नराज्जाता नाराः तत्तनयः नारायणस्यैव तनवः नाराः आपः अयनं निवासस्थानं यस्य ॥ 3-273-45 तस्मिंश्च पद्मे पितामह उपविष्ट इतिक्रमभङ्गेन योज्यम् ॥ 3-273-47 त्रसानि जंगमानि ॥ 3-273-49 हे सिन्धुपते। ते तव श्रुतं श्रवणं नास्ति। यथो विष्णोरद्भुतकर्मणः कथ्यमानानि कर्माणि न वेत्सीति शेषः ॥ 3-273-53 जलक्रीडायामभिरुचितं प्रीतिर्यस्य ॥ 3-273-54 वराहवपुषमात्मानमिति शेषः। वाङ्ययं चतुर्वेदमयम्। वेदसंमितं वेदप्रमितयज्ञरूपम् ॥ 3-273-55 वर्ष्म शरीरम् ॥ 3-273-56 दंष्ट्रेण दंष्ट्रया न्यविशत् न्यवेशयत् ॥ 3-273-62 गर्भे धरितः गर्भधारितः ॥ 3-273-64 दुर्दिनं प्रावृट्दिनं तत्र भवोऽम्भोदः कृष्णमेघस्तत्सदृशः। श्रीवत्सेनोरसि भूषित इत्यर्थः ॥ 3-273-65 वाटं स्थानम्। बलिनो बलेः। अयमिकारान्त इन्नन्तश्र शब्दो दृश्यते ॥ 3-273-69 दिव्यं च तदद्धुततमं च रूपं बभूवेति शेषः ॥ 3-273-72 अवतीर्णोऽवतरणं कुर्वन्नजायत आविर्भूतः। यदुक्षये यदूनां गृहे ॥ 3-273-73 तस्य कर्माणि विदुषो विद्वांसः गान्ति गायन्ति ॥ 3-273-75 सोऽर्जुनः अस्त्रविदुषां प्रधानं श्रेष्ठः य अजितमाहुस्तेन कृष्णेन रक्ष्यते ॥ 3-273-77 तेन कृष्णसहायत्वेन हेतुना। भावः पूज्यतमः। भावः पूज्यतमे लोके इत्यनेकार्थः ॥ 3-273-78 दिनैकमेकदिनमेव न सर्वदा ॥ 3-273-83 जयद्रथोऽपि मन्दात्मा स्वमेवेति झ. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.